वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: शुनःशेप आजीगर्तिः छन्द: गायत्री स्वर: षड्जः काण्ड:

स꣡ वाजं꣢꣯ वि꣣श्व꣡च꣢र्षणि꣣र꣡र्व꣢द्भिरस्तु꣣ त꣡रु꣢ता । वि꣡प्रे꣢भिरस्तु꣣ स꣡नि꣢ता ॥१४१७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता । विप्रेभिरस्तु सनिता ॥१४१७॥

मन्त्र उच्चारण
पद पाठ

सः । वा꣡ज꣢꣯म् । वि꣣श्व꣡च꣢र्षणिः । वि꣢श्व꣢ । च꣣र्षणिः । अ꣡र्व꣢꣯द्भिः । अ꣡स्तु । त꣡रु꣢꣯ता । वि꣡प्रे꣢꣯भिः । वि । प्रे꣢भिः । अस्तु । स꣡नि꣢꣯ता ॥१४१७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1417 | (कौथोम) 6 » 2 » 14 » 3 | (रानायाणीय) 12 » 5 » 1 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमेश्वर से प्रार्थना करते हैं।

पदार्थान्वयभाषाः -

(विश्वचर्षणिः) सब मनुष्यों पर अनुग्रह करनेवाला (सः) वह अग्रणी जगदीश्वर (अर्वद्भिः) आक्रमणकारी क्षत्रिय योद्धाओं द्वारा (वाजम्) संग्राम को (तरुता) पार करानेवाला (अस्तु) होवे और (विप्रेभिः) मेधावी ब्राह्मणों द्वारा (सनिता) ज्ञान आदि को देनेवाला (अस्तु) होवे ॥३॥

भावार्थभाषाः -

निराकार परमेश्वर ब्राह्मणों के माध्यम से ज्ञान का दान, क्षत्रियों के माध्यम से रक्षा, वैश्यों के माध्यम से पोषक पदार्थों का दान करता हुआ मनुष्यों का उपकार करता है ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमेश्वरं प्रार्थयते।

पदार्थान्वयभाषाः -

(विश्वचर्षणिः) विश्वे सर्वे चर्षणयः मनुष्याः अनुग्राह्या यस्य तथाविधः। [चर्षणयः इति मनुष्यनाम। निघं० २।३। ‘बहुव्रीहौ विश्वं संज्ञायाम्।’ अ० ६।२।१०६ इति पूर्वपदान्तोदात्तत्वम्] (सः) असौ अग्निः अग्रणीः जगदीश्वरः (अर्वद्भिः) आक्रामकैः क्षत्रियैः योद्धृभिः। [ऋ गतौ। ऋच्छति आक्रामतीति अर्वा। ‘स्नामदिपद्यर्तिपॄशकिभ्यो वनिप्।’ उ० ४।११४ इति वनिप् प्रत्ययः।] (वाजम्) संग्रामम् (तरुता) तारयिता, पारं गमयिता। [ग्रसितस्कभित०। अ० ७।२।३४ इथि तरतेस्तृनि उडागमो निपात्यते।] (अस्तु) भवतु। अपि च, (विप्रेभिः) मेधाविभिर्ब्राह्मणैः (सनिता) ज्ञानादिकस्य प्रदाता (अस्तु) भवतु ॥३॥२

भावार्थभाषाः -

निराकारः परमेश्वरो विप्राणां माध्यमेन ज्ञानदानं, क्षत्रियाणां माध्यमेन रक्षां, वैश्यानां माध्यमेन पोषकद्रव्यप्रदानं कुर्वन् जनानुपकरोति ॥३॥